(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.169. अध्यायः 169
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मेण पाण्डवसेनायां रथातिरथसंख्यानम् ॥ 1 ॥


Mahabharata - Udyoga Parva - Chapter Text

5-169-0(37702)
भीष्म उवाच। 5-169-0x(3875)
एते रथास्तवाख्यातास्तथैवातिरथा नृप।
ये चाप्यर्धरथा राजन्पाण्डवानामतः श्रृणु ॥ 5-169-1(37703)
यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप ।
रथसंख्यां शृणुष्व त्वं सहैभिर्वसुधाधिपैः ॥ 5-169-2(37704)
स्वयं राजा रथोदारः पाण्डवः कुन्तनन्दनः ।
अग्निवत्समरे तात चरिष्यति न संशयः ॥ 5-169-3(37705)
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः ।
न तस्यास्ति समो युद्धे गदया सायकैरपि ॥ 5-169-4(37706)
नागायुतबलो मानी तेजसा न स मानुषः ।
माद्रीपुत्रो च रथिनौ द्वावेव पुरुषर्षभौ ॥ 5-169-5(37707)
अश्विनाविव रूपेण तेजसा च समन्वितौ।
एते चमूमुखगताः स्मरन्तः क्लेशमुत्तमम् ॥ 5-169-6(37708)
रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः ।
सर्व एव महात्मानः सालस्तम्भा इवोद्गताः ॥ 5-169-7(37709)
प्रादेशेनाधिकाः पुंभिरन्यैस्ते च प्रमाणतः।
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः ॥ 5-169-8(37710)
चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः।
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः ॥ 5-169-9(37711)
जवे प्रहारे संमर्दे सर्व एवातिमानुषाः ।
सर्वैर्जिता महीपाला दिग्जये भरतर्षभ ॥ 5-169-10(37712)
न चैषां पुरुषाः केचिदायुधानि गदाः शरान्।
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव ॥ 5-169-11(37713)
उद्यन्तुं वा गदा गुर्वीः शरान्वा क्षेप्तुमाहवे ।
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे ॥ 5-169-12(37714)
बालैरपि भवन्तस्तैः सर्व एव विशेषिताः।
एतत्सैन्यं समासाद्य सर्व एव बलोत्कटाः ॥ 5-169-13(37715)
विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः ।
एकैकशस्त संमर्दे हन्युः सर्वान्महीक्षितः ॥ 5-169-14(37716)
प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् ।
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः ॥ 5-169-15(37717)
ते स्मरन्तश्च सङ्ग्रामे चरिष्यन्ति च रुद्रवत् ।
लोहिताक्षो गुडाकेशो नारायणसहायवान् ॥ 5-169-16(37718)
उभोयोः सेनयोर्वीरो रथो नास्तीति तादृशः ।
न हि देवेषु वा पूर्वं मनुष्येषूरगेषु च ॥ 5-169-17(37719)
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु ।
भूतोथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः ॥ 5-169-18(37720)
समायुक्तो महाराज रथः पार्थस्य धीमतः।
वासुदेवश्च संयन्ता योद्धा चैव धनञ्जयः ॥ 5-169-19(37721)
गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः ।
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी ॥ 5-169-20(37722)
अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एवच ।
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः ॥ 5-169-21(37723)
वज्रादीनि च मुख्यानि नानाप्रहरणानि च ।
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ॥ 5-169-22(37724)
हतान्येकरथेनाजौ कस्तस्य सदृशो रथः।
एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः ॥ 5-169-23(37725)
तव सेनां महाबाहुः स्वां चैव परिपालयन्।
अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम् ॥ 5-169-24(37726)
न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि ।
य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ॥ 5-169-25(37727)
जीमूत इव घर्मान्ते महावातसमीरितः ।
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् ।
तरुणश्च कृती चैव जीर्णावावामुभावपि ॥ 5-169-26(37728)
वैशम्पायन उवाच। 5-169-27x(3876)
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा।
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ॥ 5-169-27(37729)
मनोभिः सह संवेगैः संस्मृत्य च पुरातनम् ।
सामर्थ्यं पाण्डवेयानां यथा प्रत्यक्षदर्शनात् ॥ ॥ 5-169-28(37730)

इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि एकोनसप्तत्यधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-169-12 भोज्ये कौटिल्ये मर्मपीडने इतियावत्। भुज कौटिल्येऽस्य रूपम्। पांसुविकर्षणे पांसुषु विकर्षणे भूमौ मुष्टियुद्धे इत्यर्थः ॥ 5-169-24 प्रत्युदियां युद्धे संमुखः स्याम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.